home
Shri Datta Swami

Bhakti Ganga (Devotional Songs) — English  Telugu  Hindi

॥ श्री दत्त स्तुति ॥


(Sung by Smt. Devi)

श्री ब्रह्म दत्तः
शिवश्रीशयोरान नाभ्यां षडंसं चतुर्वेद मूलं जगत्सृष्टिलोलम्
सरस्वत्युपेतं सरोजात वर्णं परब्रह्म मध्यं भजे दत्तदेवम् ||

श्री विष्णु दत्तः
विधीशानयोरान नाभ्यां षडंसं घनश्याम गात्रं प्रफुल्लाब्जनेत्रम्
रमा वक्षसं रम्यरूपाभिरामं महाविष्णु मध्यं भजे दत्तदेवम् ||

श्री शिवा दत्तः
हरि ब्रह्मणोराननाभ्यां षडंसं ललाटेक्षणं चन्द्र खण्डावतंसम्
भवानीसमेतं विभूति प्रभाङ्गं महादेव मध्यं भजे दत्त देवम् ||

न वर्णो न लिङ्गं मतं नाश्रमोनु न कोऽप्यस्ति भेदोऽत्र दत्तस्य मार्गे।
महाज्ञान भक्तिर्महा योग सेवा विशिष्टैव सर्वत्र दत्तस्य मान्या॥

त्रिमूर्ति वदनोज्वलं त्रिभुज युग्म संशोभितं
चतुश्शुनक संवृतं विमल धर्मधेनु श्रितम्
धरावलय संचरं चरणपादुका घट्टनं
महर्षि कुल नायकं नमत दत्तदेवं गुरुम् ||

श्लो|| नैवाष्ट सिद्धिं न च वाஉत्र कीर्तिं ना पि त्वदीयां पदवीं वृणोमि
वृणो म्यहं जन्मनि जन्मनीह श्री दत्त ! ते पाद सरोज सेवाम् ||

ओं शांतिः ओं शांतिः ओं शांतिः

 
 whatsnewContactSearch